SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उल्लाससरः (७१) 167 यथावात्वत्कृपयाऽपरिभाव्यो लोकस्याग्रत उदारिताकारः । सर्वस्योपरिभाव्यो वर्वति त्वत्पदाश्रितो भगवन् ॥ १६८९ ॥ लोकस्य अपरिभाव्यः अतिरस्कार्यः अग्रतः उदारितः उदारीकृतः आकारः यस्य सः उवर्णेन दारितः भिन्नः अकारो यस्य सः तथोक्तः इति च। सर्वस्य लोकस्य उपरि भाव्यः श्रेष्ठतया माननीयस्मन् वर्वति । पक्षे अपरिभाव्यशब्दः आदौ अवर्णच्यावनेन तत्रैव उवर्णन्यासेन च उपरिभाव्य इति निष्पद्यत इत्यर्थः । अत्र भगवत्कृपारूपगुणेन तत्पदाश्रितस्यापरिभाब्यादिगुणाधानम् । पूर्व शुद्धं, इदं तु श्लेषसंकोणमिति विशेषः ॥ यथावा ___ जलजन्तुकुले जातस्त्वदृष्टश्चेद्यदृच्छया जातु । हन्त कुलीरोऽपि नरो नेतस्स्याननु कुलीन एव हरे ॥ १६९० ॥ हे नेतः! सर्वेश्वर । जलजन्तूनां जडजन्तूनां च कुले जातः कुलीरः कर्कटकोऽपि जातु यदा कदा वा यहच्छया न त्वैदपर्येण त्वया दृष्टश्चेत् यादृच्छिकादिसुकृतपरिणतिवशात् कटाक्षितश्चेदित्यर्थः । कुलीनः सद्वंश्य इत्यर्थः । 'महाकुलकुलीनार्यसभ्यसजनसाधवः' इत्यमरः । 'कुलात्खः' इति खः । नर एव मानुष एव स्यान्ननु भवेदेव । हन्तति भगवत्कटाक्षप्रभावपरिचिन्तनजनितहर्षे । पक्षे कुलीरशब्दः नर: रेफरहितस्सन् नेतः तत्रैव नकारेण इतः संयुतश्चेत् कुलीन इति निष्पद्यतेत्यर्थोऽपि चम
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy