SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 166 अलङ्कारमणिहारे गोपवधूः। श्लथबन्धकञ्चळीका हर्षोच्छूनस्तनद्वयतयाऽऽसीत् ॥ १६८७ ॥ अत्राभीष्टस्याननपिधानस्य विरुद्धोऽर्थः कञ्चळिकाबन्धशैथिल्वं कारणीभूतत्रपाप्रत्यनीकत्वात् , तञ्च हर्षोच्छूनस्तनद्वयतारूपस्वकारणादेवोत्पन्नं न तु पिधानानुकूलयनात् । नापाष्टसाधन. त्वेन प्रयुक्तात्कारणादिष्टानुत्पत्तिरत्रास्ति, आनंनपिधानरूपस्येष्टस्योत्पत्तः । अतो विषादनमेवात्र, न विषमम् । अयमप्यलंकारो दीक्षितोपशमेव ॥ इत्यलंकारमणिहारे विषादनसरस्सप्ततितमः. अथोल्लासालंकारसरः (७१) यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः । आधानं वर्ण्यते प्राहुरुल्लासालंकृति तु ताम् ॥ तञ्च गुणेन गुणस्य दोषेण दोषस्य गुणेन दोषस्य दोषेण गुणस्य वेति चतुर्धा । क्रमेणादाहरणानि अपि मयि पतेदपाङ्गः कृपया शिशिरोऽम्बुजाक्षभक्तिजुषाम् । अपि धन्यस्स्यामहमिति स पितामह एव वाञ्छति किमन्यः ॥ १६८८ ॥ अत्र श्रीनिवासभक्तिरूपभागवतगुणेन तदपाङ्गसङ्गापितामहादीनामपि धन्यत्वगुणाधानम् । आधानं च तद्वत्ताबुद्धिः॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy