________________
विषादनसरः (७०)
165
मन्तव्यम् । विषमासंस्पृष्टस्याप्य तद्विषयस्यानुपदमेव दर्शयिभ्यमाणत्वात्॥
यथावा - भात्येवमेव भानुर्भार्यासुखमेवमेव विन्देयम् । ध्यायत्येवं कोके सायं हन्ताम्बुधौ ममज रविः ॥
अब हि नास्ति विषमप्रभेदस्य विषयः, इष्टार्थ कारणप्रयोगाभावात् इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्य उत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वं हि तच्छरीरम् । तस्माद्विषादनमेवात्राप्रस्तुतप्रशंसघटकतयाऽवस्थितम् । अत्र प्रस्तुतश्चक्रवाकवृत्तान्तः अतिमात्रानित्यमैहिकविभवं नित्यतमं प्रत्येत्य शाश्वततमनिश्श्रेयससाम्राज्यसाधनोपेक्षया समयमतिवाहयति तावदेव प्राप्तताहशविभवभ्रंशे कस्मिंश्चिदधन्ये पर्यवस्यतीस्पप्रस्तुतप्रशंसा॥
यथावाकृतमेतदिदं कयं कृताकृत्तमिदं सुखाय भविता नः । इति विमृशनेक जमस्त्वद्विमुखो हन्त मृत्युना ह्रियते ॥ १६८६ ॥ अत्राभीष्टसुखविरुद्धमृत्युहरणरूपार्थलाभः । अत्र
इदं कृतमिदं सजमिदमभ्यस्कृताकृतम् ।
एवमीहासमायुक्तं मृत्युरादाय गच्छतिः ॥ इति महाभारतवचनार्थोऽनुसंहितः॥
द्वितीयप्रकारो यथा- . उपगूहति नन्दसुते त्रपया पिहिताननाऽपि