________________
164
अलंकारमणिहारे
तरेणाप्यभीष्टार्थलाभः प्रहर्षणमिति प्रहर्षणत्रितयसाधारणं सामा. न्यलक्षणमिति ध्येयम् ॥
चन्द्रालोके तु 'वाञ्छितार्थाधिकप्राप्तिरयत्नेन प्रहर्षणम्' इति द्वितीयप्रभेद एव लक्षितः । न तु प्रथमतृतीयौ । अन्ये तु-प्रथमप्रहर्षणोदाहरणे इष्टार्थानुकूलप्रयत्नाभावेऽपीष्टप्राप्तिवर्णनेन न प्रहर्षणालंकारोऽभ्युपेयः, प्रयत्नस्य कार्यमा प्रति कारणतया इष्टार्थतदुपायगोचरप्रयत्नाभावेऽपीष्टार्थसिद्धया कारणं विना कार्यो. त्पत्तिरूपविभावनाया एव विषयत्वात् । अतः प्रहर्षणस्य भेदद्वयमेवेति । इयांस्तु विशेषः-यत्तत्र कारणाभावश्शाब्दः इह त्वार्थ इत्याहुः ॥
इत्यलंकारमणिहारे प्रहर्षणसर एकोनसप्ततितमः.
अथ विषादनालंकारसरः (७०)
यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् ॥
अस्य च अभीष्टार्थलाभार्थं कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्च विरुद्धार्थलाभः सः ; यत्र च इष्टार्थ प्रयुतेऽपि कारणे तस्मान्न विरुद्धार्थलाभः;. अपितु स्वकारणवशात् स च विविक्तो विषयः । यत्र तु इष्टार्थ प्रयुक्तात्कारणादेव विरुद्धार्थलाभः तत्र तादृशकारणविरुद्धार्थयोरुत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमम् । इष्यमाणविरुद्धार्थलाभाञ्च विषादनमिति संकीर्णतैब । एवं चास्थ न विषमभेदैर्गतार्थतेति