________________
प्रहर्षणसर : ( ६९ )
iss वाक्यार्थे अभीप्सितार्थादधिकार्थलाभः स्पष्ट एव । अयमेव हि पूर्वेभ्यो विशेषो यदप्रस्तुतप्रशंसासंकीर्णत्वम् ॥ उपायसिद्धये यत्ने क्रियमाणे यदृच्छया । साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥
163
फलानवाप्त्या तत्प्राप्तये तदुपायगोचरो यत्नो लोके प्रसिद्धः । तादृशयत्नादतर्कित तत्फलस्यैव लाभो यत् सोऽपि प्रहषर्णमिर्त्यथः । अयं तृतीयः प्रकारः ॥
यथावा
त्वत्सेवनेन संपदमप्सुस्त्वच्छिखरिसंमुखो म. नुजः । तावत्पश्यति सिन्धुरबन्धुरमीश स्वमन्दिराळिन्दम् ॥ १६८३॥
हे ईशेति संबोधनम् । अत्र गजान्तैश्वर्य लाभोपायभूतभगवत्लेवनसिद्धयर्थाच्छेषाचलाभिमुखप्रस्थानात् स्वमन्दिराळिन्द एव तादृशैश्वर्यलाभ इति तृतीयं प्रहर्षण । इदं च कार्यकारणपौर्वापर्य व्यतिक्रमरूपातिशयोक्त्युत्तम्भितम् ॥
I
यथावा
यमुनातीरनिकुञ्जं कृष्णवशकिारमूलविचिचीषुः । प्राप्य हठात्तत्रागतममुमेव वशीचकार गोपवधूः ॥ १६८४ ॥
अत्र भगवद्वशीकरणोपायभूत मूलिकार्थाद्यमुनातीरनिकुअग मनात्तत्रैव भगवद्वाकारलाभः । एवंच साक्षात्तदुद्देश्यकयनमं