________________
162
अलङ्कारमणिहारे
हे जगतां जननि ! मेचकः चन्द्रकः अन्धकारो वा 'मेचकश्शयामले कृष्णे तिमिरे बहिचन्द्रके' इति हेमः । भवत्याः कचश्रियां केशभासां तौल्यं प्रेप्सुः; अत एव एकस्स्न् अधःकृतशीर्ष तप्त्वा ‘एकस्तपांसि कुर्वीत' इत्युक्तर्विविक्ते एक एव तपस्तप्त्वेति भावः । कथमपि भवत्याः कचतां लभते स्म । पक्षे मेचकशब्दः कचश्रिया अमेक इति छेदः । भवत्याः कचश्रिया सह तौल्यं प्रेप्सुः; अविद्यमानो मे इति वर्णो यस्य स तथोक्तः, ‘शेषाद्विभाषा' इति कप् । मेवर्णरहितः चक इत्यव. शिट इति भावः । ततः विलोमतां प्रपन्नः कचशब्दतां लभते स्मेत्यर्थः । अत्र मेचकस्य वाञ्छितश्रीकचतौल्योपक्षया अधिकस्य तत्कचत्वस्य लाभो वर्णितः । श्लेषादिचमत्कृतिविशेषस्तु पूर्ववदेव ॥
यथावा -
यावन्मगयति कामपि मरुपान्थश्श्रान्तिशान्तये छायाम् । तावदकस्माद्वैष्म पिदधे चण्डांशुबिम्बमम्बुमुचा ॥ १६८२ ॥
मरुपान्थ इत्यनेन सर्वदा छायादौर्लभ्य सूच्यते । कामपि छायामित्यनेन शाकोटकाद्यतिक्षुद्रतरुप्रविरळच्छायामित्युक्त, । अत्राप्रस्तुतमरुपान्थकर्तृकयत्किचिच्छायान्वेषणाकस्मिकमहाजल. धरकर्तृकगृष्मचण्डांशुबिम्बपिधानप्रशंसा यावदेव भवपथगतागतखदशमनकृते यकंचिच्छरणं पर्यालोचयति चेतनस्तावदेव यादृछिच्कप्रासङ्गिकादिसुकृतवशात्प्रत्यक्षतामुपगतवता भगवता तत्तापशान्तिनिर्तितेति प्रस्तुतेऽर्थे पर्यवस्यतीत्यप्रस्तुतप्रशंसारू