________________
प्रहर्षणसरः (६९)
159
तकः । तथाऽन्यत्रापीति स्थितिः । एवंच विषयतावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नाभेदस्य रूपकशरीरस्य विषयतावच्छेदकरूपेणाभासमानविषयात्मकादतिशयोक्तिस्वरूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम् । निदर्शनाललितयोस्तु स्वरूपावैल क्षण्यं प्रदर्शितमेवेत्येकालंकारत्वमेवेत्याहुः॥
इत्यलंकारमणिहारे ललितालंकारसरोऽष्टषष्टितमः.
अथ प्रहर्षणालंकारसरः (६९)
विना यत्नादीष्टार्थसिद्धिस्स्योञ्चत्प्रहर्षणम् ॥
अभीष्टार्थस्य तदुपायसंपादनयत्नेन विना सिद्धिः प्रहर्षणं नामालंकारः॥
यथावाकृष्णाऽऽश्लेषरसायनमाध्यायन्ती गृहक्रियाव्यग्रा । त्वरिता स्खलिता च हठादुद्धर । तेन गोपि काऽऽश्लिष्टा ॥ १६७६ ॥ ___ आध्यायन्ती उत्कण्ठापूर्वकमाशासाना, गृहक्रियायां व्यग्रा अत एव त्वरिता शीघ्रं संचरन्ती अत एव स्खलिता स्वलितपदा च गोपिका हठात् अकस्मात् उद्धरता तेन कृष्णेन आश्लिष्टा । अत्र यत्नसामान्यशून्याया अपि गोपिकाया अभीष्टसिद्धिः ॥
अभीप्सितार्थादधिकलाभश्चापि प्रहर्षणम् ॥