________________
158
अलंकारमणिहारे
अन्ये तु-ललितं नालंकारान्तरं, निदर्शनयैव गतार्थत्वात् । नन्वेकर्भिगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना कथमप्रस्तुतव्यवहारमात्रोपादाने पदं निधत्तामिति चेत्, श्रूयतामायुप्मता--इह तावदलंकाराः प्रायेण श्रौता आर्थाश्च संभवन्ति । तत्र श्रौतेभ्य आर्था न पृथगलंकारतया संख्यायन्ते किंतु पृथग्भेदतया। तदलंकारसामान्य लक्षणेन क्रोडीकरणात् । इदं पुनर्वाक्यार्थानिदर्शनास्वरूपम्-व्यवहारद्वयवद्धर्यभेदप्रतिपादनाक्षिप्तो व्यवहारद्वयाभदेः । तत्र व्यवहारद्वयवद्धर्म्यभेदप्रतिपादनं श्रौतमेवापेक्षितमिति न नियमः । किंतु प्रतिपादनमात्रम् । तेन ‘पर• वित्तं हरन् मर्यो विषमेवात्त्यसंशयम्' इत्यत्र व्यवहारद्वयव.
मिणोरभेदस्य श्रुत्या प्रतिपादन इव ‘धिकपरस्वं तथाऽप्येष विषमत्ति स दुर्मतिः' इत्यत्र आर्थप्रकृतव्यवहारवद्धर्मिश्रौताप्रकतव्यहारवर्मिणोराभेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम् । एकत्र श्रौतीत्वं अपरत्रार्थीत्वमिति तु विशेषो न वार्यते। पदार्थनिदर्शनास्वरूपं तूपमानोपमेयधर्मयोरभेदाध्य. वसायमूल उपमेयोपमानधर्मसंबन्ध इति पृथगेव । पतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्य लक्षणम् । यदि तु ललितं पृथगलंकारस्स्यात् लुप्तोपमादिरप्युपमादेः पृथक् स्यात्, त्वदुक्तयुक्तेस्तुल्यत्वात् । नन्वतिशयोक्तिरेवं सति रूपक एव विलीयत । विषयविषयिणोईयोरप्युपादाने श्रीतं रूपकं, विषयमात्रोपादाने त्वार्थमित्यस्यापि सुवचत्वात्, सत्यं, यत्र ह्यलंकारशरीरमुभ. यत्राप्यविलक्षणं तत्रैवालंकारव्यपदेशो युक्तः । यथा सादृश्य निष्पाद्यमानमुपमाशरीरं लुप्तोपमादिप्वावलक्षणमेवेति तत्राप्युपमयैव व्यपदेशो न्याय्यः । नालंकारान्तरेण । लुप्तत्व पूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्यावर्तमानोऽपि नोपमात्वव्याव