SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 160 अलंकारमणिहारे इच्छाविषयभूतादादधिकार्थस्य तद्गोचरयत्नं विनैव सिद्धिर्द्वितीयं प्रहर्षणम् ॥ यथा दृष्टा चेनन्द वा हृष्टा स्यामिति चिरादभिलषन्ती। लेभे गोपकिशोरी रहसि तदीयापाळिसर्वस्वम् ॥ १६७७ ॥ अत्र भगवत्कर्तृकात्मकर्मकदर्शनमात्रेण स्वहर्ष संभावयमानाया गोपकिशोर्यास्ततोऽप्यतिवेलातिशायिपरिरभ्मसर्वस्वसाम्राज्यरूपाधिकार्थलाभः ॥ यथावा संसारचारजनितां संसादयितुं विहस्ततां ये त्वाम् । श्रीनाथाकलयन्ते ते नाम कृतास्त्वया चतुर्हस्ताः ॥ १६७८ ॥ ___ विहस्ततां विक्लबतां 'विहस्तव्याकुलौ समौ' इत्यमरः । पक्षे विगतौ हस्तौ यस्य सः विहस्तः तस्य भावम् । यथाकथंचिद्धस्तवत्तासंपादनाय भगवन्तमुपासीनानां जनानां चतुर्हस्ततावाप्तिरूपाधिकार्थलाभो विहस्तशब्दगतश्लेषनियूंढ इति पूर्वस्माद्विशेषः ॥ यथावात्वदनुग्रहात्तनीयश्श्रीर्वा स्यामित्युपेत्य शौरे त्वाम् । बत बहुतपनीयश्श्रीरभत्तव सखा ततस्त्वयाऽपचितः ॥ १६७९ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy