________________
ललितप्तरः (६८)
155
यथावाक्काहं भवमरुपान्थः क्व च तव सायुज्यनित्यसाम्राज्यम् । इत एवाच्युत सहसा सुमेरुश्रृङ्गाग्रमभवमुत्पित्सुः ॥ १६७० ॥
अत्र भवमरुपान्थ एव सन्नहं दुरासदत्वदीयनित्यसाम्राज्यप्रेप्सुरस्मीति प्रस्तुतव्यवहार विषयं कण्ठरवेणाप्रतिपाद्यैव तत्प्रतिबिम्बभूतः दुरारोहं सुमेरुटङ्गाग्रमित एकोत्पातेनैवाधिष्ठातुमिच्छामीति विषय्युपनिबद्धः । विषयोगदाने तु निदर्शनैव ॥
यथावामामितवचनः क त्वादृनिगमागणेयसुगुणः क्क। भूमिष्ठ एव कल्पकसुमनिचयं निखिलमपचिचीषामि ॥ १६७१ ॥
अत्रापि मितंपचमतिरहं निगमापरिच्छेद्यभगवदनन्तकल्याणगुणविवक्षुरस्मीति विषयमकथयित्वैव भूमिष्ठ एव सकलकल्पतरुकुसुमान्यपचिचीषामाति विषय्येव निबद्धः॥
यथावा
यद्यपि नाहं पात्रं हृद्यतमाया हरे तव कृपायाः । उन्मर्याद उदन्वानुत्सर्पति चेदमुं निरुन्ध्यात्कः ॥ १६७२ ॥ ___ अत्रापि त्वं नीचेऽपि मयि निरगळकृपाप्रसरश्वेदपर्यनुयोज्यस्वातन्त्रयवैभवं त्वां को नाम निरोद्धमीष्टामिति बिम्बभूतवा