SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 154 अलंकारमणिहारे इदं शुद्धमुदाहरणम् । एवं प्रौढोक्त्यलंकारनिरूपणे प्रसङ्गादुपदर्शितं ‘एकोनविंशसंख्यकपुराणतः' इति पद्यमपि शुद्धमेवास्या उदाहरणम् ॥ चन्द्रालोके तृतीये काव्यलक्षणमयूखे काव्यलक्षणत्वेन यानि अक्षरसंहतिशोभाभिमानहेतुप्रतिषेधनिरुक्तिमिथ्याध्यवसायसिद्धियुक्तिकार्याणि दश निरूपितानि ; तानि कुवलयानन्दे चमस्कारितयाऽलंकारपदे निवेशितानि दीक्षितैः । तेष्वकतमेयं मिथ्याध्यवसितिरिति ध्येयम् । तत्रैतल्लक्षणं लक्ष्यं चैवं दृश्यते-- स्यान्मिथ्याध्यवसायश्चेदसती साध्य साधने । चन्द्रांशु सूत्रग्रथितां नमःपुष्पस्रजं वह ॥ इति । वक्तव्यान्तरं तत्तदवसरे स्फुटीभविष्यति ॥ . इत्यलंकारमणिहारे मिथ्याध्यवसितिसरस्सप्तपाष्टतमः. अथ ललितालंकारसरः (६८) धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना ! तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम् ॥ प्रस्तुतधर्मिणि प्रस्तुतव्यवहारानुल्लेखेन तत्रैव निरूप्यमाणः प्रकृतव्यवहारसंबन्धो ललितालंकारः । 'दोभ्यामब्धि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्' इत्यादिनिदर्शनावारणाय तृतीयान्तम् । अप्रस्तुतप्रशंसावारणाय प्रस्तुतधर्मिणीति ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy