________________
156
अलङ्कारमणिहारे
क्यार्थानुल्लेखेन उन्मर्याद इत्यादिप्रतिबिम्बवाक्यार्थ एवोपन्यस्तः ॥
यथावा
महतां सतां कले मां विहितकृपस्त्वं व्यजीजनश्शौरे । निबुसीकार्य धान्यं निविडे वातेऽनुवात्येव ।। १६७३ ॥
निबिडे सान्द्रे वातेऽनुवात्येव अनुकूलतया वहमान एव धान्यं तुषाविविक्तमिति भावः । निबुसीकार्य निस्तुषीकार्य ‘कडंगरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्' इत्यमरः । निगतं बुसं यस्य तन्निबुसम् । अत्र यादृच्छिकादिसुकृतवशात्सत्कुलप्रसवावसर एव परमपुरुषार्थस्साधनीय इति विषयवाक्यार्थमप्रतिपाद्य तत्प्रतिविम्बवाक्यार्थमात्रमुल्लिखितम् ॥
यथावा- '
श्रुतिपठिती वा भवतु स्मृतिपठिती वा हरि न विन्देद्यः । न हि कुक्कुरस्य रटतो भेदस्स्यात्कुकुटस्यापि ॥ १६७४ ॥
यः हरिं न विन्देत् सः श्रुतिपठिती स्मृतिपठिती वा भवतु; उभयत्रापि पठितमनेनेति विग्रहे इष्टादिभ्यश्चेति कर्तरि इनिः तद्योगे श्रुतिस्मृतिशब्दयोः ‘क्तस्थेन्विषयस्य कर्मण्युपसंख्यानम्' इति कर्मणि सप्तमी । ततस्सप्तमीसमासः, त्रयीं धर्मशास्त्रं वा पठितवान् स्यादित्यर्थः। कुक्करस्य शुनः कुकुटस्य च रटतः श्रुतिका ध्वनत: भेदो न हि स्यात् । उभयोरपि नैरर्थक्यस्य तौल्यादिति भावः । पक्षे कुक्कुर कुक्कुटशब्दयोः, रटतो भेद इत्यत्र अभेद इति छेदः।