SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ संभावनसरः (६६) मधुराद्युत्तमरसः यस्य स तथोक्तः । तस्य भावः तत्त्वं केनापि लायेन विधुरतया अभोग्य इति भावः ॥ रसस्स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । भोगे रोगे देहधातौ तिक्तादौ पारदेऽपिच ॥ इति हेमः । मकरन्दः उक्तिविशेषणमहिना क्षुद्रतमयत्किचित्पुष्परस इति लभ्यते । त्वद्वाचः रसं आस्वादं ईप्सेद्यादे अग्रे उत्तरस्मिन् काले मालक्ष्य : याहच्छिकादिसुकृतपरिपाकवशेन लक्ष्मीकटाक्षविषयस्सन् माकन्दतां सहकारफलतां 'माकन्दस्सहकारेऽपि' इति हेममेदिन्यौ । मां श्रियं कन्दति आह्वयति स्वरक्षणार्थमिति माकन्दः । तत्तां लक्ष्मीशिशुतामिति च गम्यते । कदिधातोराह्वानार्थकात्कर्मण्यण् । विन्दतु । तदा सफलत्वं स्वाभीप्सितत्वद्वाग्रसरूपफलसहितत्वं तद्भाक्त्वमित्यर्थः । इयात् । ईदृशमाकन्दजन्म परिग्रहे सत्येव माधवस्य तत्र वाग्रसं विन्देत । न तूक्तमकरन्दरूपेण स्वात्मनेति भावः । पक्षे स्वस्य आदिः आद्यः यः मः मकारः तद्विधुरः । सतो भावः सत्त्वं रस्य सत्त्वं रसत्त्वं तद्भजतीति रसत्त्वभाक् । स न भवतीत्यरसत्त्वभाक् । मकाररेफशून्य इति विशेषणद्वयाभिप्रायः । मकरन्दः मकरन्दशब्दः कन्द इति निष्पन्नस्सन्निति भावः । अग्रे आदौ माः मावर्णः तेन लक्ष्यः दृश्यसन् । माकन्द इति निष्पन्नः । सः फलत्वं इति छेदः । सः माकन्दशब्दः फलतां फलवाचकतामिति यावत् । इयात् । अत्र मकरन्दस्य माकन्दत्वसंभावनं भगवद्वाग्रसला भरूपफलवत्तासंभावनस्य साधनम् । शब्दार्थतादात्म्यभित्तिकश्लेषमूलकाभेदाध्यवसायोज्जीवितमिति ध्ययम् ॥ इत्यलंकारमणिहारे संभावनसरः षष्टितमः. , 151
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy