SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अथ मिथ्याध्यवसितिसरः (६७) मिथ्यार्थोऽन्यः कल्पतेचेत्किंचिन्मिथ्यात्वसि. द्वये। मिथ्याध्यवसितिर्नाम साऽलंकृतिरुदाहृता ॥ .. कस्यचिदर्थस्य मिथ्यात्वसिद्धयर्थ मिथ्याभूतार्थान्तरकल्पनं मिथ्याध्यवासतिर्नामालंकारः ॥ यथावागणनातिशायिघृणिना पयोजसुहृदा त्रयोद. शेन शुचीनाम् । सन्तमसं हन्त हृदभ्यन्तरगं त्वजुषां निरासि मुरारे ॥ १६६७ ॥ ___हे मुरारे! गणनातिशायिनो घृणय: किरणाः यस्य तेन तथोक्तेन त्रयोदशेन पयोजसुहृदा सहस्रमात्रसंख्याककिरणतया द्वादशात्मतया च प्रथिताद्भास्वतोऽन्येन भास्करणेत्यर्थः। त्वजषां त्वयि प्रीतिरूपापन्नध्यानभाजां न्यासविद्यया त्वां सेवमानानां वा 'जुषी प्रीतिसेवनयोः' इत्यस्मात्विवप् । शुचोनां क्षेत्रास्येश्वरज्ञप्नाद्विशुद्धिः परमा मता'. इत्यायुक्तसर्वप्रकारविशुद्धिभाजामित्यर्थः । अग्नीनामित्यप्युपस्कार्यम् । हृदभ्यन्तरगं अन्तरं संतमसं तमोगुणरूपं महात्तिमिरं निरासि निरस्यत । अत्र भगवत्प्र. पन्नशुचिहृत्तमसोऽस्यन्तासंभावितस्य निष्पत्तये त्रयोदशभास्करकर्तृकनिरासोऽत्यन्तासंभावितो निबद्धः । इदं श्लेषसंकीर्णम् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy