________________
150
अलङ्कारमणिहारे
त्वचसोऽप्रतिद्वंद्विरामणीयकस्य का हानिर्भवेदिति विदन्निति भावः । कः बुद्धिमान् तं कोकिलं अलं त्वद्वचनतुलापर्याप्त ब्रूयात् । किंच तं कोलं सूकरं ब्रूयादित्यप्यर्थः । स्वपरगुणतारतम्यविमर्शनाकुशलो यदि कश्चिदपकृष्टं. स्वमुत्कृष्टसधर्माणं जानीयात् तं निपुणमतिस्स्थूलमतिं सूकरसदृशमेव मन्यतेति भावः ॥
पक्षे अस्य कोकिलस्य किं कीतिवर्ण छिन्नं निरस्तं जाननित्यर्थः । शब्दार्थयोस्तादात्म्यम् । बुद्धिमान् त कोकिलं कोलं व्रयात् कोकिलशब्दस्य किवर्णले पे कोल इाते निष्पत्तरिति भावः । अत्र यदिनामेत्यायूहनं कोलं तमिद्यागृहप्रति साधनम् । चमत्कारातिशयस्तु व्यक्त एव ॥
यथावा
तव चरणारुणलक्ष्मी हत्वाऽपि यदार्यमेव मनुते स्वम् । सूर्यकरस्तर्हि भवेत्सूकर एवाम्ब तत्र को विशयः ॥ १६६५ ॥ .
आर्य पूज्यमेव । पक्षे अर्य अविद्यमानर्यवर्णमित्यर्थः । अत्र चौर्यकर्तुरपि सूर्यकरस्यार्यताज्ञनसंभावनं तस्य सूकरतासंभावनसाधनमिति लक्षणानुगतिः ॥
यथावा
यदि तव वाग्रसमीप्सेत्स्वादिमविधुिरोऽरसत्व भाङ्मकरन्दः। मालक्ष्योऽग्रे माधव विन्दतु माकन्दतामियात्सफलत्वम् ॥ १६६६ ॥
हे माधव ! इदं वक्ष्यमाणार्थोपस्कारकम् । स्वादिना स्वाद तया रहितः तत्र हतुः-अरसत्त्वभाति । अविद्यमानः रसः