________________
संभावनसरः (६६)
149 mmmmmmmmmmmmmmmm यदा। दृश्येत तदा सत्यं भवेत्कविक श्यता सम्यक् ॥ १६६३ ।। ___ अविकुल मेषवृन्दमपि अत्र अविशब्दः अविसदृशे लाक्षणिक.। अतिमात्रमूर्खाणां समूहोऽपीत्यर्थः। मुख्येन अगोणेन अशेषपालकेन सर्वेश्वरेण भगवता अविकलं यथा स्यात्तथा यदा दृश्येत कटाक्षविषयीक्रियते। तदा कविकुल काव्यकृद्विद्वद्वन्दं भवेत् सत्यं नात्र संदेहः। यदि संदेहः तर्हि सम्यग्विमृश्यताम् । भगवत्प्रभावविमर्श उक्तोऽर्थस्सम्यज्ञायत एवेति भावः। पक्षे अविकुलमिति पदं अविकलं अकारेण विकलं सत् मुख्येनेति वक्ष्यमाणत्वादायेनाकारेणेति लभ्यते। हे अशेषपाल सर्वेश्वर भगवन् मुख्येन आयेन केन कवर्णेन यदा दृश्यते च्याव्रिताकरेण आद्यकवर्णन घटितं दृश्यतेचेत् तदा कविकुलमित्येव भवेदित्यर्थः । अत्राविकुलस्य भगवत्कटाक्षगोचरत्वतर्कणं कविकुलत्वतर्कणसाधनमित्यादिकं द्रष्टव्यम् ॥
यथावा---
तुलनायालं वचलस्स्वं तव यदि नाम कोकि लोऽवेयात् । किं छिन्नमस्य जानन्कोलं तं जननि बुद्धिमान ब्रूयात् ।। १६६४ ॥
हे जननि ! कोकिलः तव वचसः तुलनाय साम्याय स्वं आत्मानं अलं समर्थ यदिनाम अवेयात् जानीयात् 'नमस्स्वस्ति' इत्यादिना चतुर्थी । अस्य अतिश्राव्यतया प्रत्यक्षस्य तव वचसः कि छिन्नं किं न्यूनं भवेत् । कोकिलस्य स्वैरं तथा समर्थमन्यत्वे