________________
146
अलङ्कारमाणहारे
देवतरु: अचेतन इति भावः । जातु कदाचित् तावकीनं औदार्य जानीयाद्यदि । चेतनकार्यस्याचेतनेऽसंभवाद्यदीति संभा वना। सः देवतरुः तदात्वे तत्काल एव देवदारुतां भद्रदारु. नामक्षुद्रतरुविशेषतां यायात् यत्रक्वाप्यरण्ये देवदारुतरुवदौदार्यप्रथागन्धदवीयस्तया संकुचितो वर्तेतेति भावः । पक्षे देवतरु देवतरुशब्दः तदात्वे तकारस्य दावर्णत्वे तकारमपनीय दाकारे पठिते इति यावत् । देवदारुतां यायात् देवदारुशब्दो भवेदिति भावः । अत्र देवतरोभगवदौदार्यज्ञानसंभावनं तद्देवदारुतासंभावनसाधनम् ॥
यथावा
त्वां तत्त्वेन वृषाचलकान्त बिडौजा द्विषीत यदि जातु । स भवेदेव गतौजास्सालो भूत्वाऽन्ततो बिडालोऽपि ॥ १६५९ ॥
हे पृषाचलकान्त! विडोजाः इन्द्रोऽपि भ्रातृत्वेन व्यपदेश्योऽपि किमुतान्य इति भावः । जातु तत्त्वेन वस्तुतः न त्वारो. पितकोपेन त्वां द्विषीत यदि तदा तर्हि बिडौजा गतौजास्सन् भगवद्विद्वषमहिम्ना निस्तेजास्सन् सालः वृक्षो भूत्वा स्थावरजन्म लब्ध्वेत्यर्थः । अन्ततः पर्यवसाने बिडालोपि भवेत् । स्थावरजन्मना ब्यपनीतकियत्पापस्तिर्यग्जन्माऽपि लभेतेति भावः । भगवद्विद्वेषफलमागित्याभप्रायः । पक्षे बिडौजा इति शब्दः गताः ओ जा इत्याकारकवर्णौ यस्य स तथोक्तः । अन्ततः चरमभागे ओ जा इत्याकारकवर्णापगमे परिशिष्टस्य बिडेत्याकारकवर्णस्य चरमभागे इत्यर्थः । सालं: आल इत्याकारकवर्णसमुदयसहित. सन् बिडाल इात निष्पद्यत इत्यर्थः । अत्र बिडोजसो भगव.