________________
संभा वनसंर: (६६)
हे जननि ! मम स्तुत्या मत्कर्तृकस्तवेन दरं अल्पमपि अन्तः मनासे आमोदं प्रहर्ष तनुया यदि अथ तदैव मम दामोदरपं परमं पदं सिद्धेयत् । पक्षे दरं दश्च रश्च अनयोस्समाहारः दरं अन्तरा अन्तरान्तरेणयुक्ते' इति द्वितीया । दकरारेफयोर्मध्ये इत्यर्थः । आमोदं आमोदशब्दं तनुया यदि दामोदर इति पदं शब्दः सिंध्येत् इत्यर्थः । अत्र स्तोतुर्यत्किञ्चिच्छ्री हृदयामोदोदयतर्कणं दामोदरपदासेद्धितर्कणस्य साधनं श्लेषसंकीर्णम् । एवमग्रेऽपि ॥
6
यथावा
त्वदुदारकर विधूतस्सुरागमो वीतराग एव भवन् । यदि सुमतया परिणमेत्तदा तु तेऽच्युत नखेन सदृशस्स्यात् ।। १६५७ ।।
145
हे अच्युत ! सुरागमः कल्पतरुः तव उदारण करेण विधूतः अतएव वीतराग एव विधूननजनितदैन्यातिशयेन विरक्त एव भवन् तपस्वी भवन्निति यावत् । सुमतया शोभना मा लक्ष्मीः यस्य स तथोक्तः सुमः तस्य भावः सुमता तथा शोभनलक्ष्मीविशिष्टत्वेनेत्यर्थः । परिणमेद्यदि जायेतचेत् । पक्षे पुष्पतया परिणतो भवेद्यदीत्यर्थः । तदा तु ते तव नखेन सदृशस्स्यात् । अत्र सुरागमशब्दः वीतरागः विगतरावर्णगवर्णश्चेत् सुमतयैव परिणंस्यतीत्यर्थोऽपि चमत्कारी । अत्र सुरागमस्य सुमतापरिणतितर्कणं नखसादृश्यतर्कणसाधनम् ॥
यथावा
यदि जातु
विजानीयाच्छ्रीजाने तावकीनमौ
दार्यम् | देवतरुस्स तदात्वे नासत्यं देवदारुतां या
यात् ।। १६५८ ॥
ALANKARA--111.
19