SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 147 संभावनसर: (६६) द्विद्वेषसंभावनं सालबिडालता संभावनसाधनम् । विच्छित्तिविशे बस्तु व्यक्त एव ॥ यथावा हृत्वाऽच्युत तव कान्तिं क्वचन ग्रावणि निलीनमसिताम् । दर्शयति कान्तिमत्त्वं यदि तहि बुधैः क्रियेत तद्भस्म ॥ १६६० ॥ हे अच्युत ! असिताभ्रं नीलजलदः तव कान्ति हत्वा वचन कस्मिचित् ग्रावणि शैले । पक्षे प्रस्तरे ' ग्रावाणी शैलपाषाणी इत्यमरः । विलोनं सत् कान्तिमत्वं स्वस्य द्युतिमत्त्वं, पक्षे कः कवर्णः अन्तिमो यस्य तत्तथोक्तं तस्य भावस्तत्त्वम् । अस्मिन् पक्षे अन्तिमत्त्वमित्यत्र तकारस्य 'अनचि च' इति द्वित्वम् । दर्शयति यदि तर्हि बुधैः धर्मशास्त्रज्ञैः आयुर्वेदज्ञैश्च तत् अभ्रके भस्म क्रियेत जगदोश्वरप्रशस्तवस्तुहरणदुरितापनोदनानुरूपभस्मान्तप्रायश्चित्तगोचरीक्रियेतेति भावः । पक्षे भसितं क्रियेत । कृष्णाभ्रकस्यैव भस्मविषये ज्यायस्त्वस्मरणादिति भावः । अत्रासिताम्रस्य कचिद्रावणि कान्तिमत्व प्रकाशनतर्कणं भस्मीकरणतर्कणं प्रति साधनम् । चमत्कारातिशयस्तु पूर्ववदेव ॥ , यथावा रघुवीर महादेवो महाहवो यदि भवेत्त्वयि कदाचित् । सत्यं स देहभिदया विकृतस्स्यात्त्वं हि दलिततद्धन्वा ॥ १६६१ ॥ हे रघुवीर ! महादेवः मृत्युंजयः त्वयि विषये कदाचत् महाहवः प्रवर्तितप्रबलरणो यदि सः महादेवः देहस्य शरीरस्य भिदया
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy