________________
संभावनासरः (६६)
143
यथावासितकिरणकिरणनिकरव्यतिकरतो द्रावितस्तुषारगिरिः। घनसारसारमसृणो यदि तुलयेनाथ तव कृपासारम् ॥ १६५१ ॥ ।
पत्राथे स्तोतुः कोटिवदनत्वादितर्कणं भगवदेकगुणमहिमकोटितमांशतर्कणसाधनम् । द्वितीये तुषारगिरेश्चन्द्रकरद्रवीभूतत्वादितर्कणं भगवत्कृपासारतुलनाहतातर्कणसाधनम् ॥
यथावाकर्मानुगुणफलप्रदभत्रनुरोधश्रमोऽम्ब तव नो चेत् । धनिदीनविभागकथादूरमिदं श्रीमदेव भुवनं स्यात् ।। १६५२ ॥
अथावा
अहमेव यदि विधाता जातु भवेयं हरे भवकृपया । खलवदनगहननिपतनविसंस्थुलां न रचयेय ननु वाणीम् ॥ १६५३ ॥
यथावा
यदि तादृशशेषत्वं सिध्येन्मम तर्हि कथमपीशीय। लावण्यविभवमच्युत तव वक्तुं श्रोतुमीक्षितुं वाऽपि ॥ १६५४ ॥ ___ तादृशशेषत्वमिति। शेषत्वं तादृशेति विशिंषतोऽयमभिप्रावः यद्यप्यधुनाऽपि स्वाभाविकं भगवदनन्याहशेषत्वमस्ति तथा