________________
142
अलङ्कारमणिहारे
प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामलिमातिशयार्थ श्यामलिमाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते तथा हेयगुणेषु मिथ्यात्वातिशयसिद्धये मिथ्यात्वाधिकरणकोनविंशसंख्याकपुराणाादेसंबन्ध इत्यस्यापि सुवचत्वात् । यदिच मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यादिला. पादयता रसगङ्गाधरकृता
हरिश्चन्द्रेण संजताः प्रगीता धर्मसूनुना।
खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥ इत्याद्युदाहृत्य अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवं
मध्ये सुधासमुद्रस्य सितामयगृहोदरे।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ अत्रापि सुधासमुद्रादिसंबन्धात् उक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालङ्कारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्तैयव गतार्थतेत्युक्तम् ॥
इत्यलंकारमणिहारे प्रौढोक्तिसरः पञ्चषष्टितमः.
अथ संभावनासरः (६६) संभावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥ यत्र किंचित्तर्कणमन्यत्तर्कणसाधनं तत्संभावनम् ॥
मम कोटिवदनता स्याद्यदि पुरुषायुषमिदं च कोटिगुणम् । ईशीय हरे स्तोतं कोटितमांशं त्वदेकगुणभूम्नः ॥ १६५० ॥
यथा