________________
प्रौढोक्तिसर : (६५)
इन्दुकरव्यतिकरितैश्चन्दनगिरिगन्धवाहसारांशैः। जलनिधिकन्ये मन्ये जलरुहजन्माऽसृजत्तवापा
ङ्गान् ॥। १६४८ ॥
अत्रापाङ्गेषु न केवलं शैशिर्यादयो मलयानिलकिशोर मात्रगुणा एव कवेः प्रतिपिपादयिषिताः, किंतु सकलजगदुज्जीवयितृत्वादयोऽन्येऽपीति मलयानिलसारांशेषु चन्द्रकरसंसर्गो विशेषणतयाऽतिशयार्थमुपात्तः। उत्पाद्योत्पादकभावश्चात्र न लोकप्रसिद्धः । किंतु कविप्रतिभामात्रनिबद्धः । अत्र च धर्मिविशेष संसर्गादतियो धर्म्यन्तरगतो यदि व्यञ्जन विषयः तदैवायमलंकारः । यदि वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिधीयते तदा समालंकारस्यैव विषयः ।
141
यथा
पद्मे प्रादुरभू: किल पद्म पद्मे विभर्षि पाणिभ्याम् । असि पद्मनाभहृदयावसतिस्त्वं पद्मगन्धिरिति युक्तम् ।। १६४९॥
अत्र लक्ष्म्यास्सौरभ्यातिशयस्तद्धर्मि संबन्धप्रयुक्तत्वेन वर्णित इति सम एवालंकारः । एवं चास्य मते
'एकोनविंशसंख्यक पुराणतः किंच षष्ठवेदेन । हेयगुणास्तवभगवन् ख्याप्यन्ते भाविमातृगर्भभवैः ॥
इत्यादावेकस्य मिथ्यात्वसिद्धयर्थं मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यवसित्यलंकारान्तरमिति न वक्तव्यं, प्रौडोक्तचैव गतार्थ
त्यात् । कचाः कळिन्दजातरितमालस्तोममेचकाः' इत्यादौ
6