________________
अथ प्रौढोक्तिसरः (६५)
यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् । प्रौढोक्तिरेषा कथिता जयदेवमुखैर्बुधैः ॥
किंचिदुत्कर्षा हेतुभूते वस्तुनि त तुताकल्पनं प्रौढोक्तिन्नामालंकारः॥
यथा
सारस्वतपूरोदरसूरसमुहुद्धसारसात्यरुणे। चरणे सुभगंकरणे स्मरणे स्तां मे हरेः प्रियंकरणे ॥ १६४६ ॥ 'अत्र सरस्वतीपूरगतारुणिमातिशयाहेतोस्तदुदरसूरसमुद्वद्ध. स्वस्य तद्धेतुत्वकल्पनम् ॥ । यथावा
शरदमृतकरज्योत्स्नाच्छुरिताभ्रसरिद्विकासिकुमुदसिताः । मुरवैरियशःपूरा हरिता कर्पूरलेपमादधते ॥ १६४७ ॥ ___ अत्रापि कुमुदसितत्वातिशयातोश्शरच्चन्द्रज्योत्स्नाच्छुरितत्वादेर्हेतुत्वकल्पनम् ॥
रसगङ्गाधरकारस्तु “कस्मिंश्चिदर्थे किंचिद्धर्मकृतातिशयप्र. तिपिपादयिषया प्रसिद्धतद्धर्मवता संसर्गस्योद्भावनं प्रौढोक्तिः इति अस्यालंकारस्य लक्षणमाह । तदेदमुदाहरणम्