________________
विकस्वरालंकारसरः (६४)
139
यथा
न्यस्तभरं त्वयि मामिह न स्तोकं वाऽपि कर्म बाधेत । किमपि विबाधितुमीष्टे न भाग्यवन्तं यथा रविं ध्वान्तम् ॥। १६४३ ॥
किमपि वस्तु, इदं कर्तृ । ध्वान्तं तमः, इदमपि कर्तृ । इदमुपमानरीत्या विशेषान्तरन्यसने उदाहरणम् ॥
अर्थान्तरन्यासविधया यथा
सत्स्वपि शिखरषु बहुषु श्रीवास त्वं श्रितोऽसि वृषशैलम् । न हि सर्वे भाग्यभूतो मिषत्सु विबुधेष्ववाप हि श्रीस्त्वाम् || १६४४ ॥
यथावा
कृपया राज्यं प्रादाः कपये महतां निरङ्कुशा हि कृपा । गोपस्याप्यच्युत तव जगदीशत्वं ददौ हि जलधिसुता ।। १६४५ ।।
अयमलंकारश्चन्द्रालोकानुयायिदीक्षितानुरोधेन दर्शितः । जगन्नाथादयस्तु-प्रकृतविशेषस्य सामान्येन समर्थनादेकोऽर्थान्तरन्यासः । सामान्यस्य विशेषेण समर्थनादपर इति भेदद्वयसमावेशात्मकतायाः स्फुटत्वात्तत्संसृष्टचैव गतार्थत्वान्नालंकारान्तरस्वीकार उचित इत्याहुः ॥
इत्यलंकारमगिहारे विकस्वरालंकारसरश्चतुष्षष्टितमः