SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अलंकार मणिहारे स्वत्कृपया यद्दवकरः' इत्यादौ दर्शितः । अत्र वक्तव्यमन्यत्सर्वमुद्दाहरणालंकारनिरूपणावसरे दर्शितमिति नात्र प्रतायते । मत्र हि प्रतिज्ञाहेत्ववयवयोरिव आकाङ्क्षाक्रमप्राप्तं समर्थ्य समर्थकवा - क्ययोः पौर्वापर्यमिति न मन्तव्यम् । न ह्यत्र समर्थकं समर्थ्या. नुपपत्त्युन्मीलितायामाकाङ्गायां सत्यामेवाभिधीयत इत्यस्ति निय मः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थी कविभिस्तस्याभिधानात् । एवं काव्यलिङ्गेऽपि । एवं च तयोर्वैपरीत्येऽपि न दोषः ॥ 138 यथावा सरिदधिपे शिखरिणि वा सदृशं वर्षति धनाघनस्सलिलम् । अवधीरितनिम्नोन्नतविभागमच्युत भवादृशौदार्यम् ॥१६४२ ॥ 1 अत्र पूर्वार्धगत एव विशेषः उत्तरार्धगते सामान्ये प्रस्तुत समर्थकः ॥ इत्यलंकारमणिहारे अर्थान्तरन्याससरस्त्रिषष्टितमः. ... - अथ विकस्वरालंकारसरः (६४) सामान्येन विशेषस्य क्रियते यत्समर्थनम् । पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥ कस्यचिद्विशेषस्य समर्थनं सामान्येन विधाय तत्प्रसिद्धाव परितुष्यता कविना पुनर्विशेषेण तत्समर्थनमुपमानरीत्या अर्थान्तर न्यासविधया वा क्रियते स विकस्वरो नामालंकारः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy