SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अर्थान्तरन्याससरः (६३) ब्रह्मणि श्रीनिवासे' इति भवत इव तस्यापि श्रीनिवासत्वप्रसिद्धेः । तथाच तन्मन्त्रवर्णः 'श्रीवत्साय श्रीनिवासाय नमः' इति । लक्ष्मीनिवासस्थानत्वादेव हि तस्य श्रीनिवासत्वव्यवहारः । यः पदार्थः तव हृद्यः हृदयप्रियः वक्षसि भवश्च । सुलक्षणत्वं शोभ नानि लक्षणानि 'शङ्खचक्रोर्ध्वपुण्ड्रादिचिहैः प्रियतमैहरेः' इत्युक्तानि चिह्नानि यस्य स तथोक्तः । पक्षे शोभनं च तल्लक्षणं च तत्त्वं इयात् । सः सहाश्ञ्चतीति सध्रयङ् । श्रियस्सध्रयज् श्रीसहचारी भवति । भगवन्मनः प्रियश्शुभलक्षणश्च चेतनरूपः पदार्थः अपरित्यक्तज्ञानैश्वर्यादिसमृद्धिर्भवतीति भगवद्वक्षस्यवस्थितश्चिह्नरूपः पदार्थः नित्यं श्रिया सहैव वसतीति च निर्गळितोऽर्थः ॥ तयोरप्रकृतयोरप्ययं दृश्यते । यथा- शुभकृच्छ्रेयो विन्देत्त्वद्वच इव सरलसारतमाप्तुम् । तप्त्वाऽधशीर्ष यद्रसालरस एव सरलसारोऽभूत् ॥ १६४१ ॥ शुभकृत् शुभकारी श्रेयः विन्देत् । ' श्रुभकृच्छुभमाप्नोति ' इत्युक्तेरिति भावः । रसालरसः इक्षुरसः माकन्दरसो वा । त्वद्वच इव सरलसारतां उदाररसतां आप्तुं अधरशीर्ष तप्त्वा सरलसार एव अभूत् । रसालरसशब्दस्य विलोमतया पठने तथा निष्पत्तेरिति भावः । अत्र समर्थ्य समर्थकयोर्द्वयोरप्यप्रकृतत्वम् ॥ 137 अस्मिन्नलंकारे समर्थ्य समर्थकभाव आर्थशाब्दश्चालंकारताप्रयोजकः । न तु काव्यलिङ्गे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यस्मात् इत्यादेः प्रतिपादकस्याभावे आर्थः । स च असमर्थो यः कार्येष्वपेक्षते स परमन्यसाहाय्यम' इत्यादौ । तत्सरखे शाब्दः । सोऽपि न विशति हि महोदारः । ALANKARA—III. " 18
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy