SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 136 - ... अलकारमणिहारे त्वोः' इति हेत्वर्थे शता। तं वंशं शरणकृतं भरन्यसनरूपोपायानुष्ठातारं रचयेः कुर्या एव । मद्वंशस्यैव श्रेष्ठ्यविधाने . प्रवृत्तस्त्वं तं प्रपन्नं कथं न रचयेरिति भावः । त्वदीयजनः त्वदनुगृहीतो जनः जात्वपि न हीयते । 'कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति' इति गानादिति भावः । अत्रार्थान्तरं-वरणकृतः वरणकृच्छब्दस्य मुख्यं मुखे भवं वं वकारं शं शकारं विदधत्सन् तं वरणकृच्छब्दं शरणकृतं शरणकृच्छब्दं रचयः। वरणकृच्छब्दस्यादिमवकारस्थाने शकारविन्यासे शरणकृदिति निष्पत्तरिति ॥ यथावा तव कृपया राम पुरा वलीमुखोऽपि च चतु. र्मुखो भवति । पङ्कजपलाशलोचन किंकि न करोति तव कृपा स्वैरा ॥ १६३९ ॥ ___ हे राम! वलीमुखः कपिरपि हनूमानिति भावः। तव कृप' या चतुमुखः पुरा भवति भविष्यति । पुराशब्दयोगेन ‘यावत्पुरा। इति भविष्यत्यर्थे लट् । स्पष्टमन्यत् ॥ यथावात्वमिव श्रीवल्लभ ते श्रीवत्सरश्रीनिवासतामयते । स श्रीसध्रयङ् भवति हि यस्तव हृद्यस्सुलक्षणत्वमियात् ॥ १६४० ॥ हे श्रीवल्लभ ! ते तव श्रीवत्सः तन्नामा लाञ्छनविशेषः त्वमिव श्रीनिवासतां श्रीनिकेतनत्वं अयते 'श्रीदशिश्श्रीनिवासः ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy