________________
134
ङ्क
अत्रापि पूर्ववदेवाप्रकृतस्य सामान्यस्य प्रकृतेन विशेषेण समर्थनं, श्लेषसंकीर्णत्वं तु विशेषः ॥
यथावा
ऋद्धिमतामेवाशा महती यन्नन्दमन्दिरे निवसन् । पीताम्बरोऽपि भगवान् बत पाटच्चरदशामुपादत्त ।। १६३४ ॥
पटच्चरस्येयं पाटच्चरी तां जीर्णवस्त्रसंबन्धिनीं दशां अञ्चलं, पक्षे पाटच्चरस्य चोरस्य दशां अवस्थां उपादत्त दधिनवनीतादिचौर्यलीलाया दर्शितत्वादिति भावः । ' पटच्चरं जीर्णवस्त्रं । प्रतिरोधिपरास्कान्दपाटच्चरमलिम्लुचाः' इति चामरः । ' वर्त्य - वस्थांशुकान्तेषु दशा' इति रत्नमाला ||
सामान्यस्य विशेषेण वैधम्र्येण समर्थनं यथा
शरणगमीश भवादृक्करुणात्मा न त्यजेन्निहीनमपि । विनिधायोत्सङ्गे स्वे विधुः कुरङ्गं श्रितं हि लालयति ।। १६३५ ॥
अत्र पूर्वार्धोदीरितस्य सामान्यस्य प्रकृतस्याप्रकृतेन विशेषेण वैधर्म्येण समर्थनम् ॥
यथावा
यो हि निसर्गाच्छ्रेयान् स जगति मूर्धन्यतां स्वयं भजते । कमिह पुरस्कुवैस्त्वं मूर्धन्याकारभाग्भवसि कृष्ण ॥। १६३६ ॥