________________
अर्थान्तरन्याससरः (६३
133
स्तुतविशेषस्यैव प्रस्तुतेन सामान्येन समर्थनमिति वैलक्षण्यं बोध्यम् ॥
सामान्यस्य विशेषेण साधम्र्येण समर्थनं यथात्वादृशसदीश्वरजुषां स्वगुणाश्श्रीनाथ संप्रका. शेरन् । चन्द्राश्रितस्य सान्द्रश्श्यामलिमा भाति कृष्णसारस्य ॥ १६३१ ॥
सन् प्रशस्तः ईश्वरः स्वामी। सतां नक्षत्राणां ईश्वर इति च तजषाम् । अत्र पूर्वार्धोक्तस्य सामान्यस्य प्रकृतस्याप्रकृतेनोत्तरार्धोक्तेन विशेषेण साधम्र्येण समर्थनम् ॥
यथावानिरवधिका धनतृष्णा स्फुरति हि निरतिशयसंपदामेव । नतजनधनमादत्ते विततं यस्माद्रमानिवासोऽपि ॥ १६३२ ॥ ___ अत्र पूर्वार्धप्रतिपादितस्य सामान्यस्य प्रकृतस्य उत्तरार्धप्रतिपादितेन विशेषेण प्रकृतेन साधर्येण समर्थनमिति पूर्वस्माद्विशेषः ॥
यथावानियतं जगदीशेन न्यक्कियते जिह्मगो धराभदपि । अधरीकृतस्सरीसृपगिरीश्वरो यद्रमेश्वरेणायम् ॥ १६३३ ॥