SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ , 132 अलङ्कारमाणिहारे यथावापातालं हरिमहिळे पारहितं सख्यमेत्य तावकनाभेः । स्तनसख्यमप्यगात्कनु सर्वगुरु स्थितिमयत्सता न सुहृत्स्यात् ॥ १६३० ॥ ___ हे हरिमहिळे ! पातालं कर्तृ । तव नाभेस्सख्यमेत्य तत्तुल्यं भूत्वेति हृदयम् । अपारं यथा स्यात्तथा हितं आप्तं सत् पक्षे पारहितमिति च्छेदः पावर्णविधुरं सत् स्तनयोस्सख्यमप्यगात् तालं तालफलं सत् कुचतौल्यमप्यलभतेति भावः । शब्दार्थतादात्म्यं न विस्मर्तव्यम् । तथा हि-सर्वगुरु सर्वेषामपि पूज्यं सतां महतां स्थिति मर्यादां अयत् प्राप्नुवत् वस्तु कनु कस्मिन्वस्तुनि सुहृत् न स्यात् ईदृशं सर्वसुदेव भवेदिति भावः । पक्षे सर्वे वर्णाः गुरवः यस्मिन् तत्तथोक्तं सतां ताकारसहितां स्थिति अवस्थान प्राप्तं, पातालमिति पदं गुरुभूतसर्ववर्ण ताकारसहितं चेति तथोक्तिः ॥ ____एवं साधर्म्यवैधमर्याभ्यां विशेषस्य सामान्येन समर्थने तयोः प्रस्तुतत्वाप्रस्तुतत्ववैलक्षण्यमनाहत्य समुदितान्येवोदाहरणानि य. द्यपि प्रदर्शितानि । तथाऽपि अत्र प्रथमप्रभेदस्य 'स्यालो हरेरितीन्दुः' इत्यादिषदाहरणेषु प्रस्तुतस्य विशेषस्याप्रस्तुतेन सामान्येन समर्थनं त्वय्यत्यादरवांश्चेत् । त्वत्पदरुचिविद्वेषात्' इत्युदाहरणयोः प्रस्तुतेन सामान्येनाप्रस्तुतस्य विशेषस्य समर्थन द्वितीयप्रभेदस्य तु 'संकल्पादेव जगत्' इत्यायुदाहरणेषु प्रस्तुतस्य विशेषस्याप्रस्तुतेन सामान्येन 'भ्रमरोपि तव पदाब्जे, इत्याद्युदाहरणचतुष्टये 'कचविजितोऽवध्वस्तः' इत्याद्युदाहरणे च अप्र.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy