SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अर्थान्तरन्याससरः (६३) हे प्रसूः हे जननि ! सुमनसः विपश्चितः कुसुमानि च । तापैः आध्यात्मिकादिभिः रविकरादिजन्यैश्च संतापैः । प्रसूनता प्रस्वा जनन्या ऊनता हीनत्वं पक्षे कुसुमत्वं तां भजन्तीति तथोक्ताः । सुगमार्मतरत् ॥ यथावा 131 मकरन्दस्स्वकदलनेऽप्यनुज्झितस्वार्थ एव तव वचसः । संख्यमुपैन्न हि मधुरा वैरायन्ते निजासुहृयोऽपि ।। १६२९ ॥ हे देवि ! मकरन्दः पुष्परसः मकरन्दशब्दश्च । तव वचसः हेतुभूताद्वचनात् स्वस्थ कं स्वकं तस्य दळनेऽपि मस्तकफालनेऽपीति लोकोक्तिः । पक्षे स्वस्य कः कवर्णः तस्य दळने भ्रंशे सत्यपि अनुज्झितः स्वः निजः अर्थः प्रयोजनं येन स तथोक्तः। स्वप्रयोजनैकसाधन दृष्टिः । पक्षे अनुज्झितस्वार्थः अपरित्यक्तस्वाभिधेयः मकरन्दशब्दः कवर्णभ्रंशेऽपि मरन्द इति निष्पन्नतया अपरित्यक्तस्वाभिधेय एव । मकरन्दमरन्दशब्द - स्तुल्यार्थकत्वादिति भावः । वचस इत्येतन्मध्यमगिन्याये नासरत्राप्यन्वेति । तव वचसः वचनस्य सख्यं सौहार्द उपैतु आप । स्वशिरोविदलनहेतुभूतेऽपि कुत एष न प्रत्यकार्षीदित्यत्राह - मधुरा इति । मधुराः निसर्गत एव प्रियशीलाः स्वादुशीलाश्च ' स्वादुप्रियौ तु मधुरी' इत्यमरः । निजासुहृद्भयोऽपि स्वप्राणहारिभ्योऽपि न वैरायन्ते तानुद्दिश्य वैरं न कुर्वन्तीत्यर्थ । शब्दवैर' इत्यादिना क्यङ् 'तस्मै कः प्रथमाय मानिषु महावीराय वैरायते ' इत्यत्रेव 'क्रुधदुह' इत्यादिना चतुर्थी ॥ 6
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy