SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ अलंकार मणिहारे “ समानप्रवरां कन्यामेकगोत्रामथापि वा । विवाहयति यो मूढस्तस्य वक्ष्यामि निष्कृतिम् " ॥ असगोत्रामसमानप्रवरां विन्देत" इत्यादिशातातपविष्णुप्रभृतिधर्मशास्त्रवचनविरोधस्सूचितः । पक्षे विः पक्षी गरुत्मान् स एव वाद: वाहनं तस्य योगः ' अजिताकर्षणी नीतिर्गरुडा गरुडासना' इति, 'वाहनं वेदात्मा विहगेश्वरः' इत्यादिभिर्लक्ष्म्या अपि तद्वाहनात्वोरिति भावः । कुत एवं शास्त्रनिषिद्धे प्रवृतिरत्यत्राह - स्वैरा इति । स्वैराः स्वेच्छाचारिणः कनु विधिनिषेधवशगाः स्युः न भवन्त्येवेति भावः 'अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी' इत्युक्तरीत्या भगवतस्स्वैरत्वमिति हृदयम् ॥ वथावा 130 66 कचविजितोऽवध्वस्तशैवल इह शैलतां प्रपद्य पुनः । कुचविजितोऽभूल्लक्ष्म्याश्रिया जितः क्कनु जयाय कल्पत ।। १६२७ ॥ शैवलः शैवालं अवध्वस्तः अवचूर्णितः ' अवध्वस्तोऽवचू र्णितः' इत्यमरः । पक्षे वकारेण ध्वस्त इति वा वकारो ध्वस्तो यस्मादिति वा वध्वस्तः । शैलतां गिरितां शैलशब्दतां च प्रपद्य । स्पष्टमन्यत् ॥ यथावा देवि प्रसूर्न हि त्वत्पुष्टा ग्लायन्ति सुमनसस्तापैः । म्लायन्ति तरुगतास्तु क्कनु न ग्लानिः I प्रसूनताभाजाम् ॥ १६२८ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy