________________
अर्थान्तरन्याससरः (६३)
129
हे अम्ब! पुलिनं अभिवं गतं स्वरूपत एवापुंस्त्वमापन्नं 'तोयोत्थितं तत्पुलिनम्' इति क्लीबत्वानुशासनादिति भावः । पक्षे अपुं पुवर्णरहितं भावं स्थितिं गतं लिनमित्यवशिष्टमित्यर्थः । अत एव भवत्याः नितम्बतः पुंस्त्वभाज इति भावः ‘पश्चानितम्बः' इति पुल्लिङ्गतानुशासनात्तस्य । विजितं अथ कथमपि अग्रे नितम्बस्य समक्ष भवन स्थितः यस्य तथाभूतं सत्, पक्षे अग्रभवः आदिभागस्थितिः नः नकारः यस्य तत्तथोक्तं नलिनं सदिति यावत् । तदाऽपि क्लीबत्वमत्यजदेवेति भावः। पादेन पुंस्त्वभाजेति भावः । धुतं क्षिप्तम् । पुलिनभावे नितम्बेन नलिनभावे पादेन च तिरस्कृतमिति निर्गलितोऽर्थः । कुत एवमित्यत आहकिमिति । क्लीवं नपुंसकम् । किं प्रगल्भतां किमिति पुमानिव प्रागल्भ्यं लभेतेति भावः ॥
यथावागोत्रप्रवरे भवनं युवयोरेकत्र माधव तथाऽपि । आसीद्विवाहयोगस्स्वैराः क न विधिनिषेधवशगास्स्युः ॥ १६२६ ॥
हे माधव ! इदं लक्ष्मीपतित्वेन संबोधनं विवक्षितार्थोपष्टम्भाय । लक्ष्मश्चि त्वं च युवां तयोः युवयोः “त्यदादीनि सर्वैर्नित्यम्, त्यदादितश्शेषे पुनपुंसकतो लिङ्गवचनानि " इति पुल्लिङ्गयुमच्छब्दैकशेषः । एकत्र एकस्मिन् गोत्रप्रवरे गोत्रं च प्रवरश्च अनयोस्समाहारः गोत्रप्रवरं तस्मिन् स्मृतिप्रसिद्ध एकस्मिन्नेव गोत्रे प्रवरे चेत्यर्थः। पक्षे गोत्रप्रवरे गिरिश्रेष्ठे शेषाद्रावित्यर्थः । भवन जन्म गृहं च भवति । तथाऽपि युवयोः विवाहयोगः परिणयरूपसंबन्धः । तथाऽपीत्यनेनALANKARA-III.
17