SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अर्थान्तरन्याससरः (६३) 125 यथावा हुतवहमध्ये तप्त्वा द्रुतमुज्ज्वलितं भवान्तरे भर्म । वर्म तवाच्युत समजनि कल्याणस्य स्वतः किमप्राप्यम् ॥ १६१९ ॥ हि अच्युत ! भर्म स्वर्ण कर्तृ। हुतवहमध्ये पश्चाग्निमध्ये अग्निमध्ये च तप्त्वा तपः कृत्वा तप्तं भूत्वा च अतएव द्रुतं शघ्रि उज्ज्वलितं प्रकाशितं पक्षे द्रुतं द्रवतां गतं विलीनमित्यर्थः । उज्ज्वलितं पुटपाकेन शोभितमित्यर्थः । भवान्तरे जन्मान्तरे रूपान्तरे च तव वर्म कवचं अजनि । पक्षे भर्म भर्मेति पदं भवान्तरे वेन वकारेण अन्तरं अन्तर्धानं भस्य भकारस्य वान्तरं भवान्तरं तस्मिन् सति वकारस्य भकारेण तिरोधाने सति भकारस्थाने वकारो. ञ्चारणे सतीति यावत् ‘अन्तरमवकाशावधिपरिधानान्तधिभेदता. दर्थे ' इत्यमर । वर्म अजनि । भर्मेति पद वर्मेति निष्पन्नमित्यर्थः। स्वतः कल्याणस्य मङ्गळ कृतः सुवर्णस्य च किमप्राप्यं सर्व प्राप्यमेव न हि कल्याणकृत्कश्चिद्दर्गतिं तात गच्छति' इति गानादिति भावः। 'कल्याणं मङ्गले स्वर्णे' इति रत्नमाला। अत्रापि पूर्ववदेव समर्थनम् । श्लेषादिसंकीर्णत्वं विशेषः ॥ यथावाभ्रमरोऽपि तव पदाब्जे लग्नोऽभ्रममेत्य भवति खल्वमरः । किंकिमलभ्यं त्वत्पदपङ्कजसक्तस्य वेङ्कन्टाद्रिमणे ॥ १६२० ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy