________________
124
.
अलंकारमणिहारे
दात्म्यविजृम्भितश्लेषमूलकाभेदाध्यवसायानुप्रणितस्सामान्येनाप्र . स्तुतेन विशेषसमर्थनरूप एवार्थान्तरन्यासः ॥
विशेस्षय सामान्येन वैधपेण समर्थनं यथा- संकल्पादेव जगदेङ्कटनाथस्सृजत्यवत्यत्ति । असमर्थो यः कार्येष्वपेक्षते स परमन्यसाहाय्यम् ॥ १६१६ ॥
अत्र पूर्वार्धोक्तस्य विशेषस्य प्रकृतस्य उत्तरार्धोक्तेन सामान्येनाप्रकृतेन वैधर्येण समर्थनम् ॥
यथावानितरां जननि कराभ्यां निजकरचरणेक्षणप्रतिस्पर्धि । नलिनं बत लालयसे न पराभविताऽरिमषि मृदुप्रकृतिः ॥ ५६१७ ॥ ___ अत्र प्राथमिकचरणत्रितयप्रतिपादितस्य विशेषस्य चतुर्थचरणोदितसामान्येन वैधम्र्येण समर्थनम् ॥
यथावा
लोकेशे नाकेशे काके कीशेऽपि तव कृपा सदृशी। न विशति हि महोदारो ननूत्तमाधमविभागकार्पण्यम् ॥ १६१८॥ ____ अत्रापि पूर्वार्धोक्तो विशेषः प्रकृत उत्तरार्धोक्तेन सामान्यनाप्रकृतेन वैधर्येण समर्थ्यते ॥