SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अर्थान्तरन्याससरः (६३) 117 एव, पक्षे मन्दसंज्ञा एव ‘मन्दोतीक्ष्णे च मूर्खे च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ ' इति मेदिनी । उलूकारूढानामीप्सितसिद्धयर्थ यतमानानामपि कुतो महाभाग्यलाभ इति भावः । अमीषु श्रीस्तनेत्यादिषु त्रिदाहर. णेष्वपि श्लेपोत्तम्भितविषमालकारसंकीर्णत्वं विशेषः ॥ यथावा पुष्करमम्ब पदा तव निष्कासितमपि रमे त्वदाधारतया । पुरमासीत्तव महता तिरस्कृ. तोऽप्याश्रितोऽमुमयते हि शुभम् ॥ १६०६ ॥ __ हे अम्ब रसे ! पुष्कर कमलं तव पदा प्रादेन निष्कासित स्वविजिततया स्थानानिस्तारितापि त्वदाधारतया त्वदेकावल. म्बनतया त्वदधिष्ठानतया च तव पुरं गृहं आसीत् ‘अगारे नगरे पुरम्' इत्यमरः । पक्षे पुष्करमिति पदं निष्कासितं निगतः एक इति वर्णसमुदयो यस्मिन् कर्मणि तद्यथा भवति तथा आसितं उपवेशितं पुरमाप्तीदित्यर्थः । स्पष्ट मन्यत् । अत्रापि विशेषस्य सामान्येन साधर्येण समर्थनम् ॥ यथात्वय्यत्यादरवांश्चत्प्रत्याख्यातोऽपि चेतनो भगवन् । सुतरां प्रख्यातस्स्यात्त्वदादरो ह्यद्वितीयतां फलति ॥ १६०७ ॥ हे भगवन् ! त्वयति शेषः । प्रत्याख्यातः अभिभूतोऽपि चेतनः कश्चिताणी प्राह्लादिलिरिवेति भावः । त्वयि अत्या
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy