SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 116 _ अलङ्कारमणिहारे यथावा ग्लौस्त्वन्मुखमात्सर्याद्यदाविलत्वं परं गतो नु भवेत् । गौरेव तदाऽम्ब भवेन्मत्सरिणां स्वस्वरूपहानिस्स्यात् ।। १६०४ ॥ हे अम्ब ! ग्लौः चन्द्रः त्वन्मुखे मात्सर्यात् यदा परं अति. , शयितं आविलत्वं कलुषत्वं गतः भवेनु । नुर्वितकै । पक्षे. ग्लौः ग्लौशब्दः यदा गतः गवर्णात् आद्यादित्या तलिः । परं अनन्तरं विलत्वं विगतलकारत्वं अनुभवेत् प्राप्नुयात् तदा गौरेव भवेत् । उत्कृष्टतमलक्ष्मोवदनमात्सर्येण कलापतहृदयश्चेत्स पशुरेवेति भावः । पक्षे ग्लौशब्दो लकारविरहे गौरित्येव हि निष्पद्यतेति भावः। मत्लारणां परोत्कर्षासहिष्णूनां स्वस्वरूपहानिस्स्यात् स्वगौरवक्षतिरेव स्यादिति भावः । पक्षे ग्लौशब्दस्य. गौरित निष्पत्ती स्वरूपव्यत्ययस्स्यादिति भावः ॥ यथावा--- त्वद्गतिभाग्यमवाप्तुं यतमानोऽपि च करी पराभूतः । प्रन्दा एव भवेयुस्लुङ्गा अपि देवि पेचकारूढाः ॥ १६०५ ॥ त्वद्गतिभाग्यं त्वत्प्राप्तिभागधेय त्वद्गमनतौल्यं च अवाप्तुं यतमानोऽपिच करी पराभूतः । कुत इत्यत आह-मन्दा इति तुङ्गा अपि महान्तोऽपि उन्नता अपिच । पेचकन उलूकेन अन्यत्र पुच्छमूलोपान्तेन आरूढाः कारण इति यावत् । 'उलूके करिणः पुच्छमूलोपान्ते च पेचकः' इत्यमरः । मन्दा एव भाग्यहीना
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy