________________
यथावा
अर्थान्तरभ्याससरः (६३)
115
त्वज्जङ्घादास्याप्तयाऽहा जाता जननि काहळी काळी । श्रेयस्करीश्वराणां प्रायस्सेवा जडात्मनोऽपि स्यात् ।। १६०२ ॥
काहळी त्वजनयोः दास्यस्य आप्तथा ईदृशभाग्येनेति भावः । काळी गौरी जाता 'काळी हेमवतीश्वरी' इत्यमरः । हा इत्या श्चर्ये । पक्षे काहळीति शब्दव्यतिः अहा जातेति छेदः । अहा अविद्यमानहकारा सती काळी जाता काळीति निष्पन्नेति शब्दार्थतादात्म्यमूलक श्लेषदत्तहस्तो विशेषस्य सामान्येन समधनरूपोऽयम् ॥
यथावा
श्रीस्तन कलशयुगेन स्पर्धायै यदि भजेत मुखगतताम् । गुच्छस्तुच्छस्त्यादिह कठिनेन मृदोहिं भवति परिभूतिः ॥ १६०३ ॥
गुच्छः स्तबकः श्रीस्तनकलशयुगेन सह स्पर्धायै स्पर्धार्थ मुखगततां तत्संमुखीनतां भजेत यदि तदा तुच्छ एव स्यात् शौर्यरिक्त एव स्यात् 'शून्यं तु वशिकं तुच्छरिक्त के' इत्यमरः । पक्षे गुच्छः गुच्छशब्दः मुखे विद्यमानो यो गः तस्मिन् ततां तकारत्वं भजेतचेत् तुच्छः स्यात् । गतेत्यत्र वर्णद्वयेऽप्यकारो मुखसुखाश्चारणार्थः । गकारमपनीय तत्र तकारन्यासे तुच्छ इति निष्पद्येतेत्यर्थः ॥