SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 114 अलङ्कारमाणिहारे घनसारः कर्पूरः तिलकः स्तात् भवतु । हरिणा प्रकृतेन भगवता श्रीनिवासेन तस्यैव कर्पूरकस्तूरीतिलकितफालत्वप्रसिद्धः । अत्र घनसारस्य नाम्नैवाभ्यहणीयस्य तिलकीकरणमुचितमेव । मृगनाभेः नाम्नैव जुगुप्तनीयस्य तिलकीरणमनुचितमित्याक्षिप्य अथवेत्यादिना सामान्येन समर्थित इत्याक्षेपालंकारसंकीर्णत्वं पूर्व स्माद्विशेषः ॥ यथावाउद्दामरामतेजोज्वलनैर्धष्टो धरातलभ्रष्ट्रो। निःश्रीकोऽरिगणोऽभूद्रूष्टस्य रमागमः कुतो वा स्यात् ॥ १६०१ ॥ उद्दामरामतेजांस्येव ज्वलनाः अग्नयः तैः अरिगणः धरातलमेव भाष्टं अम्बरीषं तस्मिन् ‘क्लीवेऽम्बरीषं भ्राष्टो ना' इत्य-' मरः। भ्रष्टः भर्जन प्रापितस्सन् निश्श्रीकः अलक्ष्मीकः अभूत् भ्रष्टस्य भर्जितस्य ‘भ्रस्ज पाके' इत्यस्मात्कर्मणि क्तः । भ्रशं प्राप्तस्य च, भ्रंशधातोः कर्तरि कः । 'व्रश्च' इति षत्वे तृत्वन । रमागमः लक्ष्मीप्राप्तिः । पक्षे रमित्याकारक आगमः कुतो वा स्यात् । 'भ्रस्जोरोपधयोरमन्यतरस्याम्' इति रमागमस्य वैकल्पिकत्वेन भ्रष्टस्येत्यत्र तदभावः । न्यथा भर्टस्येति स्यादिति भावः । "भ्रस्जेः रेफस्य उपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके मित्त्वादन्त्यादचः परः स्थानषष्ठीनिर्देशाद्रापधयोनिवृत्तिः" इति सूत्रार्थः । अत्रापि पूर्वपादत्रयप्रतिपादितस्य विशेषस्य चरमपादप्रतिपाद्यसामान्येन समर्थनम् । रूपकश्लेषोजीवितत्वादिकं विशेषः॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy