________________
अन्तर याससाः (६३)
113
113
अथार्थान्तरन्याससरः (६३)
समर्थनं विशेषस्य सामान्येनास्य तेन वा । आहुरर्थान्तरन्यासं साधम्र्येणेतरेण वा ॥
विशेषस्य सामान्येन सामान्यस्य विशेषेण वा समर्थनमर्थान्तरन्यासः। अर्थान्तरस्य विशेषस्य सामान्यस्य वा समर्थक तया न्यास इत्यन्वर्थोऽयम् । समर्थनं च इदमेवमनेव वा स्यादिति संदेहस्य प्रतिबन्धकमिदमित्यमेवेत्यवधारणं, निश्चय इति यावत् । तञ्च द्विविधमपि साधर्येण वैधम्र्येण चेति पुनोिवेधः । तत्र प्रकतयोस्सामान्यावशेषयोस्समर्थवत्वं अप्रकृतयोर्विशेषसामान्धयोस्समर्थकत्वं प्रायशो दृश्यते ॥ .. - यथा--
स्यालो हरेरितीन्दर्वालोऽपि जडोऽपि हन्त कुटिलोऽपि । ध्रियते शिवेन शिरसा महदनुबन्धो हि मान्यताहेतुः ।। १५९९ ॥
अत्र प्राथमिकचरणत्रितयेनोक्तो विशेषस्तुरीय चरणोक्तसामान्येनाप्रकृतेन साधण समर्थ्यते ॥
यथावाघनसारस्तिलकस्स्तान्मगनाशिस्तिलकितः कथं हरिणा । अथवा प्रभुस्स्वतन्त्रो यदिच्छति करोति • तनिरोद्धा कः ॥ १६०० ॥
ALANKARA-III.
15