________________
112
अलङ्कारमणिहारे
• अत्र भगवत्या जगज्जनन्या मौग्धयोपपादने तिङन्तार्थस्य वितरणस्य सुबन्तार्थविशेषितस्य तस्यैव विविधविभववितरणा' त्मनो वा असामथर्याज्जगदादिद्रोग्धृत्व रूपपूर्ववाक्यार्थाविशेषितं वितरणं हेतुः । विशेषणत्वं च संप्रदाने विशेषणत्वात्परंपरा बोध्यमिति ॥
इदं सर्वमपि प्राचीनालंकारककल्पितपदार्थवाक्यार्थरूपप्रभेदस्यैवं प्रकारान्तरेण कथनं व्युत्पत्तिवैचित्र्यप्रदर्शनायैवेति ध्येयम् । अत्र रसगङ्गाधरकार : - " काव्यलिङ्गं नालंकारः, कविप्रतिभानिर्मितत्वप्रयुक्त चमत्कारविशेषात्मकविच्छित्तिविरहात् हेतुहेतुमद्भावस्य लोकसिद्धत्वात् श्लेषादिसंमिश्रणजन्यस्तु चमत्कारः श्लेषप्रयुक्तत्वात्तदंशस्यैवालंकारतां कल्पयति न तु काव्यलिङ्गस्य । तत्प्रयोज्यक चमत्कारान्तरविरहात् " इति । अत्र वदन्ति - नेदं युक्तं, लौकिकत्वेऽपि कविप्रतिभामात्रगम्यतया चमत्काराधायकत्वात् ' इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये पुनाना सर्वेषामघमथनदर्प दलयसि' इत्येतदीयहेतुहेतुमद्भावस्य लोकसिद्धत्वाभावाश्च । न हि 'सुखालोकोच्छेदिनि मोक्षनामनि महामोहे' इत्यादी सुखालोकोच्छेदादीनां महामोहतादात्म्यादिहेतुत्वं क्वचित्सिद्धम् । किंच एवमप्युपमादेरप्यलंकारता न स्यात् । सादृश्यस्य वास्तवत्वेन कविप्रतिभाकल्तितत्वविरहात् । न च तत्राप्युपमाप्रयोजकसाधारणधर्माभेिदांशे तत्कल्पितत्वमेवेति वाच्यं, रमणयित्वा . दिनिमित्तधर्मस्यापि लोकप्रसिद्धत्वात् चमत्कारस्य लौकिकस्याप्यलंकास्त्वं बाधकाभावात । अन्यथा सर्वालंकारोच्छेदापतेश्चति ॥
इत्यलंकारमणिहारे काव्यलिङ्गसरो द्विषष्टितमः .
-000000