SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ काव्यालिङ्गसरः (६२) 111 श्रुतिशिखरदुर्गमाद्भुतविभव हरे तावकान् गुणानखिलान् । भणितुं विजृम्भितवतो.डिम्भस्यागस्त्वयैव सोढव्यम् ॥ १५९६ ॥ अत्र डिम्भत्वं शुद्धैकसुबन्तार्थः अपराधसोढव्यत्वे हेतुः । तथा अद्भुतविभवत्वमचिन्तनीयैश्वर्यत्वं सुबन्तार्थविशेषितसुबन्तार्थरूपं श्रुतिशिखरदुर्गमत्वे । एवं तादृशभगवद्गुणकर्मकवर्णनमागसि तादृशवर्णने च उच्छृङ्खलतया विजृम्भणमिति शुद्धसुबन्तार्थीदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम् ॥ दयितोऽपि तव मयाऽम्ब त्वदाश्रयमदादुदासनमनायि । यदिमुञ्चसीममधुना रक्षेति तमेव किमिति शरणमियाम् ॥ १५९७ ॥ हे. अम्ब! त्वदाश्रयमदात् त्वदवलम्बगर्वात् तव दयितो भग वानपि उदासनं उपेक्षणं अनायि प्राप्यत । सर्वशरण्यं तमप्पु. पेक्षितवानिति भावः । अधुना त्वदुपेक्षावसरे अमु मामिति भावः । मुञ्चसि यदि । अधुनेत्येतत् मध्यमणिन्यायादुभयतोऽन्वति । अधुना तमेव पूर्व गर्वादुपक्षितमेव तव दयितं किमिति शरणमियां, इयं लोकोक्तिः । कृतापराधस्तदग्रतः किमानुकूल्यं मयाकृतमिति शरणं प्राप्नुयामिति भावः । अत्र इममित्यादिना आभिव्यक्ते वक्तृनिष्ठानन्यशरणताहतुकाश्रयान्तरपाराअख्ये अत्मकर्तृकभगवत्कर्मकोदासीनताप्रापणरूपसुबन्तार्थविशेषिततिङन्तार्थ उपपादकः ॥ द्रुह्यन्ति ये जगद्यस्त्वदयितायापि हन्त तेभ्योऽपि । वितरसि विविधं विभवं सुतरां मुग्धोऽसि दुग्धसिन्धुसुते ॥ १५९८ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy