________________
110
अलकारमणिहारे
यथावा
अपि नाथ ब्रह्माण्डान्यधिजठरं धारयनखिन्नस्त्वम् । न्यस्तो मयाऽवनभरः कियानपि स्याततो नु बिभियाः किम् ॥ १५९४॥
कियानपि स्यात् अल्पीयान्वा भवेन्महीयान्वा। अत्रानन्यसामान्यतया प्रतिपादितस्य भगवत आत्मरक्षाभरवहनभयाभावरूपोत्कर्षस्यापाततो घटमानस्योपपादनायानन्तकोटिब्रह्माण्डाक्लेशधारणसमानाधिकरणः खेदाभावस्सुबन्तमात्रार्थावशोषितस्सुबन्ताों हेतुतयोपनिबद्धः । धारयन्नित्यत्र पूर्ववदेवाकृड्रार्थे शता। इमानि त्रीण्यप्युदाहरणानि तुल्यानि ॥
यस्य स्मरणायापि त्रस्यन्ति चतुर्मुखादयो लेखाः । तद्ब्रह्म हृदि निबन्धनलज्जयत्कोऽपि तानसुरडिम्भः॥ १५९५॥
स्मरणाय त्रस्यन्ति स्मरणं कर्तुमपि बिभ्यति । कोऽपि असुरडिम्भः प्रलाद इत्यर्थः । तान् चतुर्मुखादीन् अलजयत् । तद्धथानागोचरमपि ब्रह्म स्वहाद निबध्नन् तान् पाविष्टानकरोदिति भावः । अत्र चतुर्मुखादिकर्मकलजाप्रयोजकत्वसिद्धये तथाविधपरब्रह्मकर्मकहृदयाधिकरणकबन्धनं कविना निबद्धं, तश्चेतरसुकरत्वात्तादृशसिद्धयसमर्थ विशेषकान्तरमपेक्षत इति चतु. मुखादिकर्तृकपरब्रह्मानुस्मरणत्रासरूपवाक्यार्थः परब्रह्मरूपकर्मद्वारा विशेषक उपात्तः, तद्विशिष्टं च तादृशहृदयाधिकरणकबन्धनमसुरडिम्भारूढं तादृशलज्जाप्रयोजकत्वरूपकार्योपपादनसमर्थमिति भवति हेतुः॥