________________
काव्यलिङ्गसरः (६२)
109
विशेषणद्वारा कारणोपनिबन्धः तदा पदार्थवृत्ति काव्यलिङ्गम्' इत्येकावळीकारेण तृतीयापञ्चमीविभक्त्यन्तयोरेवेहशस्थले हेतुत्वमसुन्दरमिति कण्ठत एव वर्णितम् । अतएव रसगङ्गाधरकारस्य ‘इमं तं मामम्ब त्वमथ करुणाक्रान्तहदये पुनानासर्वेषामघमथनदर्प दलयसि' इति काव्यलिङ्गोदाहरणं दर्शयतः पवित्रीकरणस्यान्याघदर्पदलनसमर्थकतोक्तिस्संगच्छते । अस्य चायमभिप्रायः हेतोश्शाब्दतायामेव न काव्यलिङ्गावतारः 'लक्षणहेत्वोः' इति विहितशतृशानजन्तस्थले हेतुहेतुमद्भावस्य संसर्गतया तृतीयापञ्चम्यन्तस्थल इव हेतोर्न शाब्दत्वमिति । यद्यपि पुनानेत्यत्र ताच्छील्यार्थे शक्त्यर्थे वा चानशा निर्वाहस्सुकरः तस्याहेत्वर्थकत्वात् । तथापि ‘नमन्मुक्तस्संप्रीत' इत्यादौ हेत्व. र्थविहितशत्रन्तस्य नमनित्यादिपदस्य मुक्तत्वं प्रति हेतुत्ववर्णनात् शतुर्हेतुत्वमशाब्दमित्येवावसेयम् । न हि चानश इवास्य शतुस्ताच्छील्याद्यर्थकत्वेनान्यधासिद्धिश्शक्या कर्तुं, तादृशानुशासनादर्शनात् । एवमुदाहृतसूत्रविहितशानजन्तस्थलेऽपि द्रष्टव्यमित्यन्यत्र विस्तरः ॥
यथावा
उपगहितादधीयत्रुदधिसुताकुचयुगात्कठोरत्वम् । तद्वारयन् हृदी हरे दीनेषु भवेः कथं नु मृदुहृदयः ॥ १५९३ ॥
अत्र दुर्घटस्य भगवतो मृदुहृदयताभावस्योपपादनाय उदधिसुताकुचयुगापादानककठोरताध्ययनसमानाधिकरणस्तद्धृदय - धारणरूपस्सुबन्तमात्रार्थविशोषितस्सुबन्तार्थों हेतुतयापात्तः । अधायन् धारयन्नित्यत्र 'इधार्योश्शत्रकृच्छिणि इत्यकृच्छ्रार्थे शता॥