SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 108 अलङ्कारमणिहारे गम्यमानहेतुताकस्यैव हेतोस्सुन्दरत्वेनालकारिकैः काव्यलिङ्गताया अभ्युपगमात् । तच सुबन्ततिङन्तार्थत्वाभ्यां तावविविधम् । आद्यमपि शब्दान्तरार्थविशेषितशरीरं शुद्धकसुबन्तरूपं. चेति द्वेधा। अत्राप्याद्यं साक्षात्परंपरया वा वाक्यार्थविशेषितं सुबन्तार्थमात्रविशेषितं चेति विभेदम् । तिङन्तार्थभूतमपि साक्षात्परंपरया वा वाक्यार्थविशेषितं सुबन्तार्थमात्रविशेषितं चेति द्विप्र. कारम् । शुद्धभेदस्तु तिङन्तार्थस्य न संभवति। क्रियायाः कारकविशेषितत्वावश्यंभावात्" इत्याह । तत्प्रकारेणोदाहरणानि अञ्जलिमात्रचिकीर्षास्त्वं जगदधिकां श्रियं ददद्भगवन् । जाननालं तदिदं वदान्यमूर्धन्य इति नुतौ त्रपसे ।। १५९२ ॥ ___अत्र ह्यनितरसाधारणत्वेन वर्णितायाः भगवतःश्रीनिवासस्य वदान्यमूर्धन्यताप्रयोज्यलजाया आपाततोऽघटमानाया उपपाद. नाय अञ्जलिचिकीर्षुमुक्त्यैश्वर्यदानसमानाधिकरणः पर्याप्त्यभावस्सुबन्तमात्रार्थविशेषितात्मा सुबन्तार्थों हेतुत्वेनोपनिबद्धः ॥ ननु ‘लक्षणहेत्वोः' इति सूत्रविहितशत्रन्तेन जानन्नित्यनेन साक्षाखेतोरभिधानात्कथंकारं काव्यलिङ्गम् । तादृशहेतुवाचकपदेन हेतोराभिधाने तदनवतारस्य सर्वालंकारिकसंप्रतिपन्नत्वादिति चेन्मैवम् । तद्विहितश्शता न हेतुवाचकः येनैवं शङ्कयेत । किंतु तड्योतकः। तथाच तत्सूत्रशेखरग्रन्थः । 'इह लक्षणादि द्योत्यं शत्राद्यर्थस्तु कादिव' इति । एवं शानजन्तहेतुस्थलेऽपि बोध्यम् । अतएव 'यदा पुनः पदार्थस्य हेतुत्वं तदा यदि तृतीयान्तं पञ्चम्यन्यं वा पदमुपादीयते तदा हेतुमात्रं नालंकारः, यदा तु
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy