________________
94
अलकारमणिहारे
र्थेन समार्थतः श्लेषभित्तिकाभेद ध्यवसायानुप्राणितवक्ष्यमाणनिरुक्त्युत्तभितः ॥
यथावा
राजासनहृदयङ्गमवृत्तिरपि त्वयि निरासहृदय इह । जायेत जगदधीश्वर जानङ्गमवृत्तिरेव जन्तुरहो ॥ १५७३ ॥
राजासनेन राजाहसिंहासनेन राजासने वा हृदयङ्गमा हृद्या वृत्तिः स्थितिः यस्य स तथाभूतोऽपि त्वयि विषये निरासे औदास्ये तिरस्कारे वा हृदयं चित्तं यस्य स तथोक्तः। हे जगदधीश्वर ! जन्तुः जनगमः अन्त्यजः तस्येयं जानङ्गमी वृत्तिः जीविका यस्य स एव भविता। त्वदुदासिता महाराजोऽपि 'यो विष्णुं सततं वेष्टि तं विद्यादन्त्यरेतसम्' इत्युक्तरीत्या चण्डालवृत्तिरेव भवेदित्यर्थः। जनगम इत्यत्र 'गमश्च' इति सूत्रेण संज्ञायां खचप्रत्ययः ‘अरुईषदजन्तस्य' इति मुम्। 'चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः' इत्यमरः । जनादच्छति दूरमासर्पतीति जनगम इति विग्रहः। तस्येयं जानङ्गमी अण्णन्तलक्षणङीष् तादृशी वृत्तिर्यस्य । पुवद्भावः । पक्षे राजासनहृदयङ्गमवृत्तिशब्दः निगताः रासहृदय इत्याकारका वर्णाः यस्य स तथोक्तः। अत एव जानअमवृत्तिरित्याकारकवर्णानामेव पारिशेप्याजानङ्गमवृत्तिरिति निपद्यत इत्यर्थः । अत्र राजासनहृदयङ्गमस्यापि जानङ्गमवृत्तिता. वाप्तिरूपवाक्यार्थः त्वयि निरास हृदय इति पदााभ्यां समर्थितः । चमत्कारविशेषस्तु व्यक्त एव ॥
यथावातव सुतराम्बरहिततां स्ववर्णतोऽम्बानुविन्दती