________________
काव्यलिङ्गसरः (६२)
95
कबरी। मधुरिपुहृत्पद्माकरविलोडने बत करी भवति ॥ १५७४ ॥
हे अम्ब! सुतरा अतिमात्रशोभना तव कबरी स्ववर्णतः . स्वकीयश्यामलिना । सार्वविभक्तिकस्तसिः । अम्बराय व्योम्ने हिततां मित्रतां अनुविन्दती सती व्योमतुलनां प्राप्तवती सती। मधुरिपुहृदेव पद्माकरः पद्मानामावासभूतस्तटाकः तस्य विलोडने विक्षोभणे करी भवति गजस्संपद्यते । तत्तुल्यो भवति पटूभवतीति यावत् । पक्षे कबरी कबरीति शब्दव्यक्तिः सुतरां अतिमात्रं स्ववर्णतः स्वस्मिन्विद्यमानेषु वर्णेषु पूर्ववत्सार्वविभक्तिकस्तसिः। वरहिततां ववर्णविधुरतां अनुविन्दती सती करी भवति कबरीशब्दो बवर्णराहित्ये करीति निष्पद्यत इत्यर्थः । अत्र कबर्याः करीभवनमघटमानं सुतराम्बरहिततामित्याद्यनकेपदार्थस्तमर्थ्यते। इदं च श्लेषपरंपरितरूपकाभ्यां परिपोषितमिति द्रष्टव्यम् ॥ यथावा-
। ननु दुग्धसागरः प्राकौमें रूपेऽगमथनतो भगवन् । समतानि दुग्धसारो भवता कौस्तुभरमे समाददता ।। १५७५ ॥
हे भगवन् ! अगमथनतः अगेन मन्दरेण मथनं 'साधनं कृता' इति समासः । तस्मात् अगमथनतः अगमथनं कृत्वेति ल्यब्लोपे कर्मणि पञ्चम्यास्तसिः। कौस्तुभः रमा लक्ष्मीश्चेत्येते समाददता स्वीकुर्वता ‘लक्षणहेत्वोः' इति सौत्रनिर्देशन पूर्वनिपातप्रकरणस्यानित्यताशापनाकौस्तुभशब्दस्य पूर्वनिपातः ।