________________
काव्यलिङ्गसर: (६२)
93
प्रत्युत सा पूर्वोक्ता चेतनैव चेतनेति शब्दव्यक्तिरेव स्यात् । यातनात्वं प्राप्ता चेतनेति शब्दव्यक्तिश्चेतनेत्येव सत्तां प्रपद्येत । आगन्तुकयाकारस्थाने पुनश्चेकारन्यासादिति भावः । अत्र भवभययातनामूलकबुद्धिभ्रंशरूपवाक्यार्थेन भगवदभययाचनरूपवाक्यार्थस्य तेन च यातनानिवृत्तिरूपवाक्यार्थस्य तेन च चेतनास्वास्थ्यरूपवाक्यार्थस्य समर्थनमिति ध्ययम् ॥
--
यथावा
भवदव वल्गसि कियदिव दूरं स्फारं हरे: कृपापूरम् । मयि सृत्वरमतिसत्वरमभिपश्य तदा विनश्यति मदस्ते ।। १५७१ ।।
अत्र कृपापूरदर्शनेन वाक्यार्थेन मदविनाशवाक्यार्थः तेन भवदववल्गनोपसंहाररूपवाक्यार्थस्समर्थितः । अत्र मध्यगतपूवैवाक्यार्थहेतुकोत्तरवाक्यार्थेन तत्पूर्ववाक्यार्थसमर्थनम् । पूर्वोदाहरणेभ्यो विशिष्टमिदं मालारूपं रूपकसंकीर्ण चेति ॥
पदार्थहेतुककाव्यलिङ्गं यथा
अन्योन्यजयप्रेप्साशृङ्गाशृङ्गिप्रसङ्गिणोरुभयोः। तुन्नः पन्नगगिरिणा कनकगिरिर्मेरुरित्यूचे॥१५७२॥
कनकगिरिः पन्नगगिरिणा तुन्नस्सन् शृङ्गेण विद्धस्सन्नित्यर्थः । कर्मणि निष्ठानत्वं च । अत एव मे मम अरुः व्रणमजनीति ऊचे उक्तवान् । ब्रूञः कर्तरि लिट् 'ब्रुवो वाचः' इति वच्यादेशः । पक्षे मेरुः सुमेरुरिति ऊचे उच्यते स्म जनैरिति शेषः । कर्मणि लिट् । अत्र मेरुरित्यूचे इति वाक्यार्थस्तुन्न इति पदा