SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 92 अलङ्कारमणिहारे यथावामम चेतना विचेयाकाराऽच्युत यातनामयी भवभयतः । याचेकतावनीतेः क यातना तर्हि चेतनैव स्यात्सा ॥ १५७० ॥ हे अच्युत! मम चेतना बुद्धिः भवभयतः संसृतिभीतेः यातनामयी प्रचुरतीबवेदना सती। प्राचुर्यार्थे मयट् । विचेयाकारा विचेयः गवेषणीयः आकारः आकृतिः यस्यास्सा तथोक्ता भवति । संसारोद्वेगजनितवेदनाप्रचुरतया विनष्टप्राया भवतीत्यर्थः । अतः अभीतेः अभयस्य कृती करणे विषये याचे । अभयप्रदाने त्वां प्रार्थये इत्यर्थः । ततः किं तव सेत्स्यतीत्यत्राह-क्केति । तर्हि तदा त्वदभयदानानन्तरमित्यर्थः । यातना पूर्वोक्तवेदना क स्यात् न स्यादेव, किंतु सा चेतनैव पूर्वोक्ता बुद्धिरेव स्यात् सत्तां लभेतेत्यर्थः । त्वदभयवितरणानन्तरं मम बुद्धिरस्तीति व्यवहार्या भवेदिति भावः । पक्षे चेतना चेतनोति शब्दव्यक्तिः विचेयाकारा विभ्रंशितः चे चे इत्याकारकवर्णः येन स तथोक्तः विचेः याकारः यावर्णः यस्यास्सा तथोक्ता विभ्रंशितचेकारा तत्स्थानप्रापितयावर्णा सतो यातनामयी 'तत्प्रकृतवचने मयट' इत्यत्र तदिति योगविभागात्स्वार्थिको मयट् । यातनेति रूपं प्राप्ता भवतीत्यर्थः । अभोतेः विद्यमानवर्णभ्रंशनतत्स्थानवर्णान्तरन्यसनाभ्यां शब्दरूपं विपरीतं स्यादिति भयराहित्यादिति भावः । याचे कृताविति समस्तं पदम् । यावर्णस्थाने चेवर्णकरणे यातना क्व । उक्तरीत्या याकारस्थाने चेकारन्यासेन यातनेति शब्दरूप क्व स्यात् । तत्स्वरूपस्यैव गतत्वादिति भावः ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy