________________
काव्यलिङ्गसरः (६२)
91
अलोकिताः अदृष्टाः, अविद्यमानः लोवर्णो येषां ते अलोकाः 'शेषाद्विभाषा' इति कए । अलोकाः कृताः अलोकिताः । अत्रापि पूर्ववदेव मालारूपत्वम् ॥
यथावा
शममभिवर्धय सततं मम शङ्कामत्र यदि तनोषि त्वम् । कामो भविता वृद्धः क्षेमो मे स्यात्ततः कथं शौरे ॥ १५६९ ॥
हे शौरे! सततं मम शमं शांन्ति अभिवर्धय । अत्र शान्त्य. भिवर्धनविषये त्वं शङ्कां विशयं तनोषि यदि कामः विषयाभिलाषः वृद्धः अभिवृद्धो भविता। ततः अनन्तरं मे क्षेमः संसारोत्तारादिकुशलं 'कुशल क्षेममस्त्रियाम् ' इत्यमरः । कथं स्यात् विषयलोलुपतायां न कथंचिदपि श्रेयस्सुलभमिति भावः। अत्र शं का इति पदद्वयं 'वा पदान्तस्य' इति शमो मकारस्थानिकानुस्वारस्य वैकल्पिकः परसवर्णः। शं शमशब्दे शकारं कां काकारं तनोषि चेत् शमशब्दः कामशब्दो भवन् वृद्धस्स्यात् । आद्यचो वृद्धसंज्ञकत्वादृद्धसंज्ञको भवति । ‘वृद्धिर्यस्याचामादिस्त दृद्धम्' इति वृद्धसंज्ञाविधानात् ततः शकारस्थाने काकारन्यासानन्तरं क्षेमः कथं स्यात् काकारन्यासे काम इत्येव शब्दस्स्यान्न तु क्षेम इतीत्यर्थान्तरमप्यनुसंधेयम् । अत्र शमाभिवर्धनौदास्यरूपवाक्यार्थेन कामाभिवृद्धिभवनरूपवाक्यार्थस्य तेन च क्षेमभवनसंदेहरूपवाक्यार्थस्य च पूर्वपूर्वेणोत्तरोत्तरस्य समर्थनमिति मालारूपत्वम् ॥